वाचस्पत्यम्
म || पु० मा—क । १ शिवे २ चन्द्रे ३ चतुर्मुखे ब्रह्मणि एकाक्ष० । ४ यमे ५ समये ६ विषे ७ विष्णौ च मेदि० । छन्दःशास्त्रोक्ते ८ त्रिगुरुके गणे “मो भूमिस्त्रिगुरुः श्रियं दिशति यः” वृ० र० टी० । तस्य देवता भूमिः काव्यादौ प्रथमप्रयोगे श्रीलाभः फलम् ।
शब्दकल्पद्रुमः
मः || पुं, (माति निर्म्माति जगदिति । मा + कः ।)
शिवः । चन्द्रमाः । ब्रह्मा । इत्येकाक्षरकोषः ॥ यमः । समयः । विषम् । मधुसूदनः । इति मेदिनी । मे, १ ॥
शब्दकल्पद्रुमः
म || मकारः । स तु पञ्चविंशतितमव्यञ्जनवर्णः । अस्योच्चारणस्थानमोष्ठः । इति व्याकरणम् ॥ (“उपूपध्मानीयानामोष्ठौ ।” इति सिद्धान्त- कौमुदी ॥)
अस्य स्वरूपं यथा, —
“मकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली । तरुणादित्यसङ्काशं चतुर्व्वर्गप्रदायकम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।” इति कामधेनुतन्त्रम् ॥ (वङ्गीयाक्षरैः)
अस्य लेखनप्रकारः । यथा, —
“ऊर्द्ध्वाधःक्रमतो रेखा वामे वक्रा तु कुण्डली । पुनश्चाधोगता सैव तत ऊर्द्ध्वगता पुनः । ब्रह्मा शम्भुश्च विष्णुश्च क्रमशस्तासु तिष्ठति ॥” अस्य ध्यानं यथा, —
“कृष्णां दशभुजां भीमां पीतलोहितलोचनाम् । कृष्णाम्बरधरां नित्यां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, —
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ तस्य नामानि । “मः काली क्लेशितः काला महाकालो महान्तकः । वैकुण्ठो वसुधा चन्द्री रविः पुरुषराजकः ॥ कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः । जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्रबन्धनौ ॥ विषं शिवो महावीरः शशिप्रभा जनेश्वरः । प्रमत्तः प्रियसू रुद्रः सर्व्वाङ्गो वह्निमण्डलम् । मातङ्गमालिनी बिन्दुः श्रवणा भरथो वियत् ॥” ३६ ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥