संस्कृत-शब्दकोशः

मक मकरकुण्डल

मकर

वाचस्पत्यम्

मकर ||‍ पुंस्त्री० मं विषं किरति कॄ—अच् । १ जलजन्तुभेदे अमरः स्त्रियां जातित्वात् ङीष् । स च गङ्गावाहनं कामस्य ध्वजश्च । मकराकरत्वात् २ मेषादितो दशमे राशौ । तद्राशिश्च उत्तराषाढाशेषपादययसहितं श्रवणं धनिष्ठार्द्धञ्चेति नवपादात्मकः । तद्राशिस्वरूपादिकं नी० ता० उक्तं यथा “मृगश्चरः क्ष्माऽर्द्धरवो यमाशा स्त्री पिङ्गरूक्षः शुभभूमिशीतः । स्वल्पप्रजासङ्गसमीर- रात्रिरादौ चतुष्पात् विषमोदयो विट् । मकि—घञ् पृषो० मकं भूषणं राति ददाति रा—क । ३ निधिभेदे निधिशब्दे ४६८ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

मकरः || पुं, (कृणातीति । क हिसांयाम् । क + अच् । ततः मनुष्याणां करः हिंसकः । यद्वा, मुखं किरतीति । मुख + कॄ + कः । उभयत्रापि पृषोदरादित्वात् साधुः । इति अमरटीकायां रघुनाथचक्रवर्त्ती ।)
जलजन्तुविशेषः इत्यमरः । १ । १० । २० ॥ (पादिनां गणान्तर्गतो जल- जन्तुविशेषः । “कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कवः । घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे । यथास्य गुणाः । “मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनः । रुचिप्रदः शुक्रकरो ग्राही चोष्णविकारहा । मूत्राश्मरीणां शमनो गुल्मातीसारनाशनः ॥” इति हारीते प्रथमस्थान एकादशेऽध्याये ॥)
मकर इति गङ्गाया वाहनत्वेन ख्यातः । इति सारसुन्दरी । यथा । सितमकरनिषण्णां शुभ्र- वर्णां त्रिनेत्रामित्यादि स्मृत्युक्तगङ्गाध्यानम् ॥ स च कामदेवस्य ध्वजचिह्नम् । मकरध्वज इत्यमरकोषदर्शनात् । मेषादिद्वादशराश्यन्त- र्गतो दशमराशिः । तत्पर्य्यायः । आकोकेरः २ । अस्य अधिष्ठातृदेवता मृगास्यमकरः । उत्त- राषाढायाः शेषपादत्रयं श्रवणासमुदायः धनिष्ठायाः पूर्ब्बार्द्धं एतन्नवपादेन भवति । स च पृष्ठोदयः भूमिराशिः अर्द्धशब्दकरः दक्षिण- दिक्स्वामी पिङ्गलवर्णः रूक्षः भूमिचारी शीतलस्वभावः अल्पसन्तानः अल्पस्त्रीसङ्गः वातप्रकृतिः वैश्यवर्णः श्लथाङ्गश्च । अत्र जातस्य फलम् । सदानन्दः । पितृमातृभक्तः श्रवणा- मकरजातश्चेत् बहुविवाहः । इति जातका- दयः ॥ अथ, रवियुक्तमकरजातफलम् । “सदाटनो मित्रगणो विपक्षतां प्रयाति नूनं धनवर्ज्जितः स्यात् । यद्युष्णरश्मिर्मकरोपगः स्यात् प्रसूतिकाले स तु भाग्यहीनः ॥” अथ चन्द्रयुक्तमकरजातफलम् । “कलितशीतभयः किल गीतवित्- तमरुषा सहितो मदनातुरः । निजकुलोत्तमवृत्तिकरः परं हिमकरे मकरे पुरुषो भवेत् ॥” अथ मङ्गलयुक्तमकरजातफलम् । “पराक्रमप्राप्तवरः प्रतिष्ठः सदङ्गनाप्राप्तिवराङ्गनः स्यात् । श्रिया समेतो मकरे महीजे प्रसूतिकाले कुलपालकश्च ॥” अथ बुधग्रहस्थितमकरजातफलम् । “रिपुभयेन युतः कुमतिर्नरः स्मरविहीननरः परकर्म्मठः । मकरगे सति शीतकरात्मजे व्यसनतः स नतः पुरुषो भवेत् ॥” अथ गुर्व्वाश्रितमकरजातफलम् । “न मनोरथसिद्धिमुपैति नरो वचसामधिपे मकरोपगते । भवयुक् कुमतिः परकर्म्मरतो बहुतोषयुतो मदनापहतः ॥” अथ शुक्राश्रितमकरजातफलम् । “अतिरतिर्जनने त्वजनने नृणां व्ययभयं कृशता बहुचिन्तया । भृगुसुते मृगराशिगते सदा कविजने विजनेऽपि मतिर्भवेत् ॥” अथ शनिग्रहस्थितमकरजातफलम् । “मकरोपगतः खलु भानुमुतः कृपया सहितो नृपमानयुतः । वरगन्धविभूषणभूषितगात्र- स्तरुणीरमणः पङ्कजनेत्रः ॥” इति कोष्ठीप्रदीपः ॥ (व्यूहभेदः । यथा, कामन्दकीये नीतिसा रे । १८ । ४८ । “यायाद्व्यूहेन महता मकरेण पुरो भये ॥”)



Correction: