संस्कृत-शब्दकोशः

मकर मकरकेतन

मकरकुण्डल

वाचस्पत्यम्

मकरकुण्डल ||‍ पु० मकराकृति कुण्डलं कर्णभूषणम् । मकराकारे कर्णभूषणे ।


शब्दकल्पद्रुमः

मकरकुण्डलं || क्ली (कुण्डलम् मकर इवेत्युप- मितसमासः ।)
मकराकृतिकर्णभूषणम् । यथा, “वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः । महाकिरीटकटकः स्फुरन्मकरकुण्डलः ॥” इति श्रीभागवते ६ स्कन्धे ४ अध्यायः ३७ श्लोकः ॥ स्फुरती मकरकुण्डले यस्य सः । इति तट्टी- कायां श्रीधरस्वामी ॥



Correction: