संस्कृत-शब्दकोशः

मकरध्वज मकरन्दवती

मकरन्द

वाचस्पत्यम्

मकरन्द ||‍ पु० मकरमपि द्यति कामजनकत्वात् दो—अवखण्डने क पृषो० मुम् । १ पुष्पमधौ अमरः । २ कुन्दवृक्षे च ३ किञ्ज- ल्के न० राजनि० ।


शब्दकल्पद्रुमः

मकरन्दः || पुं, (मकरमपि अन्दति बध्नाति धारयतीति वा । अदि बन्धने + अण् ततः शकन्धादित्वात् साधुः ।)
पुष्परसः । इत्यमरः । २ । ४ । १७ ॥ (यथा, रघौ । ४ । ८८ ॥ “प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु- र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥”)
कुन्दपुष्पवृक्षः । किञ्जल्के क्ली । इति राज- निर्घण्टः ॥



Correction: