संस्कृत-शब्दकोशः

मकुष्टक मकुष्ठक

मकुष्ठ

वाचस्पत्यम्

मकुष्ठ ||‍ पु० मीयते मा—ड कुत्सितं तिष्ठति स्था—क अम्बष्ठा० षत्वम् कर्म० । १ ब्रीहिभेदे “मकुष्ठो वातलो ग्राही कफपित्त- हरो लघुः । वान्तिकृन्मधुरः पाके कृमिकृज्ज्वरनाशनः” भावप्र० । २ मृदुगामिनि त्रि० । स्वार्थे क । ३ वनमुद्गे


शब्दकल्पद्रुमः

मकुष्ठः || पुं, (मङ्कते मङ्क्यते इति वा । बाहुलकात् उः मकुः । तिष्ठतीति स्था + कः स्थः । मकु- श्चासौ स्थश्चेति मकुष्ठः । पूर्ब्बपदादिति । ८ । ३ । १०६ । षत्वम् ।)
ब्रीहिभेदः । मन्थरे त्रि । इति मेदिनी । ठे, १६ । “मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ । (ब्रीहिभेदार्थे यथा, पर्य्यायो गुणाश्च । मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः । वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भांवप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: