वाचस्पत्यम्
मख || पु० मख—संज्ञायां घ । यज्ञे अमरः ।
वाचस्पत्यम्
मख || सर्पणे भ्वा० पर० सक० सेट् । मखति अमाखीत् अमखीत् ममाख मेखतुः ।
वाचस्पत्यम्
मख || सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्खति अमङ्खीत् मङ्ख्यते ।
शब्दकल्पद्रुमः
मख || इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ मङ्ख्यते इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मखः || पुं, (मखन्ति गच्छन्ति देवा अत्रेति । मख सर्पणे + “हलश्च ।” ३ । ३ । १२७ । इति घञ् । संज्ञापूर्ब्बकत्वान्न वृद्धिः । यद्वा, पुंसीति घः ।)
यज्ञः । इत्यमरः । २ । ७ । १३ ॥ यथा, देवी- भागवते । १ । १९ । २३ । “कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।”
शब्दकल्पद्रुमः
मख || सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
मखति ॥