संस्कृत-शब्दकोशः

मगल मघ

मग्न

वाचस्पत्यम्

मग्न ||‍ त्रि० मस्ज—क्त । (डोवा) जलादौ कृतमज्जने ।


शब्दकल्पद्रुमः

मग्नः || त्रि (मस्ज् + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातकारस्य नत्वम् । “स्कोः संयोगाद्यो रन्ते च ।” ८ । २ । २९ । इति सलोपः । चोः कुत्वञ्च ।)
स्नातः । जलान्तःप्रविष्टः । डोवा इति भाषा ॥ (यथा, देवीभागवते । १ । ६ । २५ । “केन सृष्टं कथं जातं मग्नावावां जले स्थितौ ॥”)
मस्जधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥



Correction: