संस्कृत-शब्दकोशः

मघवती मघवन्

मघवत्

वाचस्पत्यम्

मघवत् is an alternate of मघवन्. मघवन्(त्) ||‍ पु० मह—कनिन् नि० हस्य घः “मथवा बहुलम्” पा० वा तृच् । १ इन्द्रे अमरः २ तन्नामनामके पेचके च । तृचि मघवान् अतृचि मघवा । एवं मघ- वानौ मघवन्तावित्यादिरूपद्वयम् । भत्वे अन्नन्तस्य सम्प्र० । मघोनः तृजन्तस्य न मघवतः इत्यादि ङीपि मघोनी मघवतीत्यादि तद्धिते न सम्प्र० । माघवनम् इत्यादि भाष्ये तु मघशब्दात् मतुपिरूपं साधयित्वा शब्दान्तर- मित्युक्त्वा न तृजित्युक्तम् ।


शब्दकल्पद्रुमः

मघवान् || [त्] पुं, (भघवत् । “मघवा बहुलम् ।” ६ । ४ । १२८ । इति पक्षे तृ-आदेशः । ऋ इत् ।)
इन्द्रः । इत्यमरटीकायां रमानाथः । व्याकरणञ्च ॥ (यथा, महाभारते । ३ । ४५ । १० । “एको वै रक्षिता चैव त्रिदिवं मघवानिव ॥” दनोः पुत्त्रभेदः । यथा, मात्स्ये । ६ । १८ । “मरीचिर्मघवांश्चैव इरागर्भशिरास्तथा ।”)



Correction: