वाचस्पत्यम्
मञ्जरि(री) || स्त्री मञ्जु ऋच्छति ऋ० इन् शक० पररूपं वा ङीप् । अभिनवोद्गतायां सुकुमारायां पल्लवाङ्कुररूपायां १ वल्लर्य्याम् अमरः ङीबन्तस्तु तत्र २ मुक्तायां ३ तिलक- लतायां शब्दरत्ना० । ४ तुलस्याम् राजनि० ततः तारका० इतच् । मञ्जरित जातमञ्जरीके त्रि० । ङीबन्तः “सजसा यलौगिति शरग्रहैर्मञ्जरी” व० र० टी० उक्ते चतुर्दशा- क्षरपादके छन्दोभेदे ।
शब्दकल्पद्रुमः
मञ्जरिः || स्त्री वल्लरिः । इत्यमरः । २ । ४ । १३ ॥ वल्लते वृणोति तरुं वल्लरिः वलमि वल्ल ङ स्तृतौ नाम्नीति अरिः । मञ्जु मनोज्ञतां रातीति मञ्जरिः पूर्ब्बेण डिः मनीषादित्वादुकारस्य अकारः पाच्छोणादीति ईपि मञ्जरी वल्लरी च । वल्लरिर्मञ्जरिर्द्वयोरिति शाब्दिकः ॥ वल्लि- र्मुञ्जिश्चात्र । “मञ्जरिमञ्जरी मञ्जिर्मञ्जरं त्रिषु वल्लरी । वल्लरं त्रिषु वल्लिश्च वल्लरिः पत्रनालिका ॥” इति हड्डचन्द्रः ॥ लतामात्रेऽपि वल्लरिः । अतो बाहुवल्लरीति प्रयोग इति मुकुटादयः ॥ वल्लरीमञ्जय्योर्भेद- मप्याहुः । यथा अभिनवनिर्गता आयता सुकु- मारा सकुसुमा अकुसुमा च मञ्जरिः । यथा चूतमञ्जरिः कदलीमञ्जरिः । वल्लरिः पुनश्चिर- भूतापि । यथा तालमञ्जरिः गुवाकवल्लरिरिति द्वयमेव नवे चिरन्तनेऽपीति कृष्णसाञ्जौ । इति भरतः ॥