संस्कृत-शब्दकोशः

मञ्जरि मञ्जरीनम्र

मञ्जरी

वाचस्पत्यम्

मञ्जरी is an alternate of मञ्जरि. मञ्जरि(री) ||‍ स्त्री मञ्जु ऋच्छति ऋ० इन् शक० पररूपं वा ङीप् । अभिनवोद्गतायां सुकुमारायां पल्लवाङ्कुररूपायां १ वल्लर्य्याम् अमरः ङीबन्तस्तु तत्र २ मुक्तायां ३ तिलक- लतायां शब्दरत्ना० । ४ तुलस्याम् राजनि० ततः तारका० इतच् । मञ्जरित जातमञ्जरीके त्रि० । ङीबन्तः “सजसा यलौगिति शरग्रहैर्मञ्जरी” व० र० टी० उक्ते चतुर्दशा- क्षरपादके छन्दोभेदे ।


शब्दकल्पद्रुमः

मञ्जरी || स्त्री (मञ्जरि । कृदिकारादिति पक्षे ङीष् ।)
मुक्ता । तिलकवृक्षः । लता । इति शब्दरत्नावली ॥ (यथा, राजतरङ्गिण्याम् । १ । २०७ । “निर्गते मञ्जरीकुञ्जादपश्यत् पुरतस्ततः । कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥”)
मञ्जरिः । इत्यमरटीकायां भरतः ॥ (यथा, आर्य्यासप्तशत्याम् । ५३३ । “वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः । केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥”)
तुलसी । इति राजनिर्घण्टः ॥



Correction: