संस्कृत-शब्दकोशः

मणिगणनिकर मणिच्छिद्रा

मणिग्रीव

वाचस्पत्यम्

मणिग्रीव ||‍ पु० कुवेरपुत्रभेदे शब्दर० ।


शब्दकल्पद्रुमः

मणिग्रीवः || पुं, (मणयो ग्रीवायां कन्धरायां यस्य ।)
कुवेरपुत्त्रः । इति शब्दरत्नावली ॥ रत्नकन्धरे त्रि ॥ (यथा, ऋग्वेदे । १ । १२२ । १४ । “हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥” “मणिग्रीवं रत्नाद्युपेतकण्ठम् ।” इति तद्भाष्ये सायनः ॥)



Correction: