वाचस्पत्यम्
मणिच्छिद्रा || स्त्री मणिरिव छिद्रमस्याम् । १ मेदानामौषधौ २ ऋषभानामौषधौ च मेदि० ।
शब्दकल्पद्रुमः
मणिच्छिद्रा || स्त्री (मणेरिव छिद्रमस्याम् ।)
मेदा- नामौषधम् । ऋषभाख्यौषधम् । इति मेदिनी । रे, २९० ॥ (तथास्याः सलक्षणपर्य्यायः । “महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते । शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् ॥ यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः । शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)