वाचस्पत्यम्
मणिग्रीव || पु० कुवेरपुत्रभेदे शब्दर० ।
शब्दकल्पद्रुमः
मणिग्रीवः || पुं, (मणयो ग्रीवायां कन्धरायां यस्य ।)
कुवेरपुत्त्रः । इति शब्दरत्नावली ॥ रत्नकन्धरे त्रि ॥ (यथा, ऋग्वेदे । १ । १२२ । १४ । “हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥” “मणिग्रीवं रत्नाद्युपेतकण्ठम् ।” इति तद्भाष्ये सायनः ॥)