वाचस्पत्यम्
मणित || न० मण—क्त । रतिकाले स्त्रीणामव्यक्तशब्दभेदे हेम०
शब्दकल्पद्रुमः
मणितं || क्ली (मण् + भावे क्तः । मैथुनकालीन- वाक्यम् । “स्त्रनितमणितादि सुरते ।” इति साहित्यदर्पणे ।)
तत्पर्य्यायः । रतकूजितम् १ । इति हेमचन्द्रः ॥ (यथा, शिशुपालवधे । १० । ७५ । “सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ॥”)