वाचस्पत्यम्
मणितारक || पुंस्त्री० मणिरिव तारकास्य । सारसखगे राजनि० स्त्रियां जातित्वात् ङीष् ।
शब्दकल्पद्रुमः
मणितारकः || पुं, (मणेरिव दीप्तिमती तारका यस्य ।) सारसपक्षी । इति राजनिर्घण्टः ॥