संस्कृत-शब्दकोशः

मणितारक मणिद्वीष

मणिद्वीप

शब्दकल्पद्रुमः

मणिद्वीपः || पुं, क्ली, (मणिप्रचुरो द्वीपः ।)
क्षीर- समुद्रमध्ये पद्मरागादिमणिमयान्तरीपः । स च त्रिपुरसुन्दरीवासस्थानम् । यथा, —
“सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे मणिद्वीपे नीपीपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्य्यङ्कनिलयां भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीम् ॥” इत्यानन्दलहरी ॥



Correction: