वाचस्पत्यम्
मण्ठ(ठ) || पु० मठ—अच् पृषो० वा । (भाठ) कृतान्नभेदे राजनि० । “समितां मर्दयदाज्यैर्जलेनापि च सन्नयेत् । अस्यास्तु वटकं कृत्वा पचेत् सर्पिषि नीरसम् । एलालवङ्गकर्पूर- मरिचाद्यैरलङ्कृते । मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् । अय प्रकारः संसिद्धो मण्ठ इत्यभिधीयते” । अस्य गुणाः “मण्ठस्तु वृंहणा वृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः” भावप्र० मठ इति पठितम् कृतान्नशब्दे २१८३ पृ० दृश्यम्
शब्दकल्पद्रुमः
मण्ठः || पुं, (मण्ठते इति मठि + अच् ।)
वटक- विशेषः । माडाँ इति हिन्दी माषा । यथा, —
“समितां मर्द्दयेदाज्यैर्जलेनापि च सन्नयेत् । अस्यास्तु वटकं कृत्वा पचेत् सर्पिषि नीरसम् ॥ एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते । मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् । अयं प्रकारः संसिद्धो मण्ठ इत्यभिधीयते ॥” अस्य गुणाः । “मण्ठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥” प्रकारान्तर यथा, —
“समिता शर्करासर्पिर्निर्म्मिता अपरेऽपि ये । प्रकारा अमुना तुल्यास्तेऽपि चैतद्गुणाः स्मृताः ॥” इति राजनिर्घण्टः ॥