वाचस्पत्यम्
मण्ड || पुंन० मन—ड तस्य नेत्त्वम् । १ सर्वान्नानामग्ररसे (माड) २ सारे ३ पिच्छे च । ४ आमलक्यां ५ सुरायाञ्च स्त्री ६ दधिमण्डे (मात्) न० मेदि० । ७ एरण्डवृक्षे ८ शाकभेदे भूषायां च पुंन० हेमच० अर्द्धर्चादि भावप्र० तद्विधानं यथा “तण्डुलानां सुसिद्धानां चतुर्दशगुणे गले । रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते । सैन्धव- संयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक्सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता । पेय यूपपवागूनां विलेपी भक्तयोरपि” । तस्य गुणाः “मण्डी ग्राही लघुः शीतो दीपनो धातुसाम्यकृत् । जरघ्नस्तर्पणो बल्यः पित्त- श्लेष्मश्रमापहः” । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च । ज्वरापहारी कफापत्तहन्ता बायुं जयेदष्टगुणो हि मण्डः । लाजमण्डोऽग्निजननो दाह- तृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः । वाट्यमण्डोऽग्निजनः शूलानाहविनाशनः । पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः” राजवल्लभः । वाट्यमण्डो भृष्टयममण्डः ।
शब्दकल्पद्रुमः
मण्डं || क्ली (मण्डतीति । मडि भूषादौ + अच् ।)
मस्तु । इति मेदिनी । डे, २१ ॥ (यथा, भाग- वते । ५ । २० । २४ । “समानेन दधिमण्डोदेन परितः ॥”)
शब्दकल्पद्रुमः
मण्डं || क्ली पुं, (मन्यते ज्ञायते अनेन अन्नादिक- मिति । मन + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।)
सर्व्वेषामन्नदध्यादीनामग्ररसः । इत्यमरभरतौ । माड् इति मात् इति च भाषा ॥ (यथा, उत्तररामचरिते ४ अङ्के । १ । “नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया- पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति ॥”)
सारः । पिच्छम् । इति मेदिनी । डे, २१ ॥
शब्दकल्पद्रुमः
मण्डः || पुं, (मण्डयति क्षेत्रं भूषयतीति मडि + अच् ।)
एरण्डवृक्षः । शाकभेदः । इति मेदिनी । ते, २१ ॥ मस्तु । भूषा । सारः । पिच्छम् । हेमचन्द्रः ॥ (मण्डति वर्षागमे हृष्यतीति मडि + अच् ।)
दर्दूरः । भक्तादिभवरसः । तस्य लक्षणम् । “भक्तैर्विना द्रवो मण्डः पेयं भक्तसमन्वितम् ।” इति राजनिर्घण्टः ॥ (“तक्राल्लघुतरो मण्डः ।” इति च, सुश्रुते सूत्र- स्थाने ४५ अध्यायः ।)
अथ मण्डस्य लक्षणं विधिर्गुणाश्च । “तण्डुलानां सुसिद्धानां चतुर्द्दशगुणे जले । रसः सिक्थैर्व्विरहितो मण्ड इत्यभिधीयते ॥ “शुण्ठी सैन्धवसंयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ॥ पेया यूषयवागूनां विलेपीभक्तयोरपि ॥” तस्य गुणाः । “मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्य- कृत् । ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥” इति भावप्रकाशः ॥ अपि च । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च । ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥” लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः ॥ वाट्यमण्डोऽग्निजननः शूलानाहविनाशनः । पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः ॥” वाट्यमण्डो भृष्टयवमण्डः । इति राजवल्लभः ॥ (धान्यादिकृतमण्डगुणाः । क्लीवत्वं विवक्षितम् । “धान्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् । वातलं रक्तशमनं ग्राहि सन्दीपनं परम् ॥” इति धान्यमण्डगुणाः ॥ “युगन्धराणां मण्डन्तु श्लेष्मकृद्वातलं मतम् । पित्तसंशमनीयञ्च मूत्रलं ग्राहणञ्च तत् ॥” इति युगन्धरमण्डगुणाः ॥ “रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् । प्रमेहानश्मरीं हन्ति वातलं पित्तकृत्तथा ॥” इति रक्तशालिमण्डगुणाः ॥ “मधुरं शीतलं किञ्चित् श्लेष्मलं शोषनाशनम् । अश्मरीमेहसंछेदी वातलं श्वेतताण्डुलम् ॥” इति श्वेततण्डुलमण्डगुणाः ॥ “यवमण्ड कषायं स्याद् ग्राहि चोष्णं विपाकि च ।” इति यवमण्डगुणाः ॥ “तद्वत् गोधूमसंभूतं मधुरं पित्तवारणम् ।” इति गोधूममण्डगुणाः ॥ “ग्लानिमूर्च्छाकरं सद्यः कोद्रवाद्यकृतं लघु ।” इति कोद्रवमण्डगुणाः ॥ “तद्वच्च क्षुद्रधान्यानां वातलं पित्तकारकम् । करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥” इति क्षुद्रधान्यमण्डगुणा ॥ इति मण्डवर्गाः ॥ इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥ “मण्डस्तु दीपयत्यग्निं वातञ्चाप्यनुलोमयेत् । मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि ॥ लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्य- ताम् । दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात् प्राणधारणः ॥ तृष्णातीसारशमनो धातुसाम्यकरः शिवः । लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ॥ मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः । क्षुत्पिपासासहः पथ्यः शुद्धानान्तु मलापहा ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अथ्यायः ॥)