संस्कृत-शब्दकोशः

मण्डु मण्डूकपर्ण

मण्डूक

वाचस्पत्यम्

मण्डूक ||‍ पुंस्त्री० मण्डयति वर्षासमयम् मडि—ऊक । १ मेके अमरः स्त्रियां जातित्वात् ङीष् । २ शोणके ३ मुनिभेदे च पु० मेदि० ४ बन्धभेदे विश्वः । ५ गाढतेजस्के त्रि० शब्दर० ।


शब्दकल्पद्रुमः

मण्डूकः || पुं, (मण्डयति भूषयति जलाशयमिति मडि + “शलिमण्डिभ्यामूकण्” उणा० ४ । ४२ । इति ऊकण् ।)
भेकः । इत्यमरः । १ । १० । २४ ॥ (यथा, मनुः । ४ । १२६ । “पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्न्निशम् ॥” भेकार्थे पर्य्यायो गुणाश्च यथा, —
“मण्डूकः प्लवगो भेको वर्षाभूर्द्दर्द्दुरो हरिः । मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
शोणकः । मुनिविशेषः । इति मेदिनी । के, १३६ ॥ गाढतेजाः । इति शब्दरत्नावलि ॥ बन्धविशेषे क्ली । इति विश्वः ॥ (अश्वजाति- भेदः । यथा, महाभारते । २ । २८ । ६ । “तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयो- त्तमान् ।”)



Correction: