वाचस्पत्यम्
मण्डूकपर्ण || पु० मण्डूक इव पर्णमस्य । १ श्योनाके अमरः २ शोणके मेदि० । ३ मञ्जिष्ठायां स्त्री टाप् ङीप् वा । ४ ब्राह्म्यां (वामनहाटि) ५ ओषधिभेदे (थुलकुडी) रत्नमा० । स्त्री ङीप् मेदि० । ६ आदित्यभक्तायां स्त्री ङीप् राजनि० । स्वार्थे क । मण्डूकपर्णिका तत्रार्थे “मण्डूकपर्णिका लज्वी स्वादुपाका सरा हिमा” । “मण्डूकपर्णिका लज्वी रूक्षा वातविबन्धनुत्” राजवल्लभः ।
शब्दकल्पद्रुमः
मण्डूकपर्णः || पुं, (मण्डूकाकृति पर्णमस्य । यद्बा, मण्डूक इवोत्तानोदरं पर्णमस्य ।)
श्योनाकवृक्षः । इत्यमरः । ४ । २ । ५६ ॥ (तथाचास्य पर्य्यायः ॥ “श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकः । मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः ॥ दीर्घवृन्तोरलुश्चापि पृथुशिम्बः कटम्भरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
शोणकः । इति मेदिनी । णे, ११५ ॥