वाचस्पत्यम्
मण्डोदक || न० मण्ड इवोदकं यत्र । १ आतर्पणे (आलिपोना) २ चित्ररागे ३ चित्रवर्णे मेदि० । सुश्रुतोक्ते सुराकल्पान्त- र्गतक्वाथभेदे “वैरेचनिकमूलानां क्वाथे माषान् सुभावि- तान् । सुधौतांस्तत्कषायेण शालीनाञ्चापि तण्डूलान् । अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् । शालितण्डुलचूर्णञ्च तत्कषायोष्णसाधितम् । तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् । मण्डोदकार्थे क्वाथञ्च दद्यात्तत् सर्वमेकतः । निदध्यात् कलसे तान्तु सुरां जातरसां पिबेत् । एष एव सुराकल्पो वसनेष्वपि कीर्त्तितः ।”
शब्दकल्पद्रुमः
मण्डोदकं || क्ली (मण्ड इव उदकमस्य मण्डमिश्रित- मुदकमत्रेति वा ।)
चित्ररागः । विचित्रवर्णः । आतर्पणम् । आलिम्पना । इति मेदिनी । के, २०७ ॥ (यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये । “तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमि- श्रितान् । मण्डोदकार्थे क्वाथञ्च दद्यात् तत्सर्व्वमेकतः ॥”)