संस्कृत-शब्दकोशः

मण्डोदक मतङ्ग

मत

वाचस्पत्यम्

मत ||‍ त्रि० मन—क्त । १ सम्मते २ अभिप्रेते ३ ज्ञाते ४ अर्चिते च । भावे क्त । ५ सम्मतौ ६ अभिप्राये ७ ज्ञाने ८ अर्चायाञ्च न० । ९ समीकृते त्रि० मत्यशब्दे दृश्यम् । ततः ऋश्या० चतु- रर्थ्यां क । मतक तत्समीपादौ त्रि० । स्वार्थे क । मत शब्दार्थे ।


शब्दकल्पद्रुमः

मतं || क्ली (मन् + भावे क्तः ।)
सम्मतम् । तत्- पर्य्यायः । छन्दः २ अभिप्रायः ३ आकूतम् ४ भावः ५ आशयः ६ । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

मतः || त्रि (मन् + कर्म्मणि क्तः ।)
सम्मतः । ज्ञातः । इति मेदिनी । ते, ४२ ॥ (यथा, रघौ । २ । ५७ । “किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ॥”)
अर्च्चितः । इति हेमचन्द्रः ॥



Correction: