वाचस्पत्यम्
मतङ्ग || पु० माद्यति अनेन मद—अङ्गच् दस्य तः । १ मेघे उणा० दिकोषः । २ मुनिभेदे भा० स० ८ अ० । ३ दानवभेदे हरिवं० २४२ अ० । ४ राजर्षिभेदे आ० ७१ अ० । ब्राह्मण्यां नापितेन जाते ५ चण्डामभेदे च तत्कथा भा० आनु० २९ अ० ।
शब्दकल्पद्रुमः
मतङ्गः || पुं, (माद्यति माद्यत्यनेन वेति । मद् + “मदीभिर्यञि हर्षे । इत्युणादिकोष टीकोक्त- सूत्रादङ्गच् । दस्य तः ।)
मुनिभेदः । (यथा, रघौ । ५ । ५३ । “मतङ्गशापादवलेपमूला- दवाप्तवानस्मि मतङ्गजत्वम् ॥”)
मेघः । इत्युणादिकोषः । १ । २७ ॥