संस्कृत-शब्दकोशः

मतानुज्ञा मतिदा

मति

वाचस्पत्यम्

मति ||‍ स्त्री मन—भावे क्तिन् । १ ज्ञाने अमरः । २ इच्छायां ३ स्मृतौ च । कर्त्तरि क्तिच् । ४ आर्य्ये मेदि० ५ शाकभेदे अजयपालः । ६ मेधाविनि निघण्टुः । ७ मतिकरौषधं गरु० १९८ अ० उक्तं यथा “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचात्रि- कटुकञ्चैव लवणं चूर्णमुत्तमम् । ब्राह्मीरसे भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहभक्षितं कुर्य्यान्तदैश्वर्य्यं मतिं पराम् ।”


शब्दकल्पद्रुमः

मतिः || स्त्री (मन्यतेऽनयेति । मन् + क्तिन् ।)
बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी- भागवते । १ । १७ । २९ । “मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”)
इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥ आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥
“विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे । यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ मतिकरौषधम् । यथा, —
“पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥” इति गारुडे १९८ अध्यायः ॥



Correction: