वाचस्पत्यम्
मत्स्यजीविन् || पु० मत्स्येन तद्धारणविक्रयादिना जीवति जीव—णिनि । निषादे “मत्स्यघातो निषादानाम्” मनुना तस्य तज्जीविकोक्तेस्तस्य तथात्वम् ।