संस्कृत-शब्दकोशः

मत्स्यजीविन् मत्स्यण्डी

मत्स्यण्डिका

शब्दकल्पद्रुमः

मत्स्यण्डिका || स्त्री (मदं मधुररसं स्यन्दते इति । स्यन्द + ण्वुल् + टाप् । अत इत्वञ्च । पृषो- दरादित्वात् साधुः । शर्कराविशेषः । मिछिरि इति भाषा । यथा, —
“लसीकाफाणितगुडखण्डमत्स्यण्डिकासिताः । निर्म्मला लघवो ज्ञेयाः शीतवीर्य्या यथोत्तरम् । यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥” इति राजवल्लभः ॥ राव इति हिन्दीभाषा । तस्य लक्षणं यथा, —
“इक्षोरसो यः संपक्वो घनः किञ्चिद्द्रवा- न्वितः । मन्द यत् स्यन्दते यस्मान्मत्स्यण्डीति निगद्यते ॥” अस्य गुणाः । “मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिला- पहा । मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता ॥” इति भावप्रकाशः ॥



Correction: