वाचस्पत्यम्
मत्स्यण्डी || स्त्री (राव) ख्याते गुडविकारभेदे भावप्र० “इक्षो रसो यः संपक्वो धनः किञ्चिद्द्रवान्वितः । मदवत् स्यन्दते यस्मान्मत्स्यण्डीति निगद्यते” । अस्या गुणाः “मत्स्यण्डी भेदिनी बल्या लष्वी पितानिलापहा । मधुरा वृंहणी वृष्या रक्तदोषापहा पाता” ।
शब्दकल्पद्रुमः
मत्स्यण्डी || स्त्री खण्डविकारः । इत्यमरः । २ । ९ । ४३ ॥ इक्षुविशेषस्य रसपाके खण्डयोग्ये सारभूते या गुडिकाकारा जायते सा मत्स्यण्डी । खण्ड- शालूकं मिछिरि इति ख्याते नवात् इति ख्यातापि मत्स्यण्डीति केचित् । मत्स्याण्डा- कारत्वात् मत्स्यण्डी मनीषादित्वादलुक् नदा- दित्वादीप् मत्स्यमनिति मत्स्यण्डी अन प्राणने डः इत्यन्ये । मदं स्यन्दते मत्सण्डीति केचित् । इति भरतः ॥ (यथास्या लक्षणं गुणाश्च ॥ रावकाकव खण्डराव इति लोके । “इक्षो रसो यः सम्पक्वो घनः किञ्चिद्रवान्वितः । मन्दं यत् स्यन्दते यस्मात्तन्मत्स्यण्डी निगद्यते ॥ मत्स्यण्डी मेदिनी बल्या लघ्वी पित्तानिला- पहा । मधुरा बृंहणी वृष्या रक्तदोषपहा स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥