वाचस्पत्यम्
मत्स्यमुद्रा || पूजाङ्गे मुद्राभेदे “दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् । अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी । मत्स्यमुद्रा च कूर्म्माख्या लेलिहा मुण्डसंज्ञिकाः । महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा” तन्त्रसारः । “श्यामादौ मुण्डमुद्रिका । “मत्स्यकूर्मलेलिहाख्या मुद्रा साधरणी मता” तत्रोक्तम् ।