वाचस्पत्यम्
मत्स्याक्षी || स्त्री मत्स्यस्याक्षीवाकारोऽस्याः षच्समा० ङीष् । १ गण्डदूर्वायां राजनि० २ सोमलतायाम् ३ हिलमोचि- कायाम् ४ ब्राह्मीशाके रत्नमाला ।
शब्दकल्पद्रुमः
मत्स्याक्षी || स्त्री (मत्स्यानां अक्षीणीव अक्षीणि पुष्परूपाणि चक्षूषि यस्याः । मत्स्याक्षि + “बहुब्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ । ४ । ७३ । इति षच् ङीष् च ।)
ब्राह्मी । इत्य- मरः । २ । ४ । १३७ ॥ सा च सोमलतायाम् । ब्राह्मीशाके इति केचित् । इति भरतः ॥ यथा, “ब्राह्मी वयस्था मत्स्याक्षी मीनाक्षी सोम- वल्लरी । मत्स्याक्षी शिशिरा रुच्या ब्रणदोषक्षयापहा ॥” इति राजनिर्घण्टः ॥ गण्डदूर्व्वा । इति राजनिर्घण्टः ॥ हिलमोचिका । ब्राह्मीशाकः । इति रत्नमाला ॥ (गण्डदूर्ब्बार्थे पर्य्या यो यथा, —
“गण्डद्रूर्व्वा तु गण्डाली मत्स्याक्षी शकुला- क्षकः ॥” मत्स्यादनी ॥ तत्पर्य्यायो गुणाश्च यथा । मछेछी छछमछरी आइतिच । इति लोके । “मत्स्याक्षी वाह्लिका मत्स्यगन्धा मत्स्याद- नीति च । मत्स्याक्षी ग्राहिणी शीता कुष्ठपित्तकफास्र- जित् ॥ लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)