वाचस्पत्यम्
मथु(थू)रा || स्त्री मथ—उ(ऊ)रच् । स्वनामख्यातायां नगर्य्याम । “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काशी० ख० । तन्माहात्म्यं विष्णुपु० ६ अंशे ८ अ० । वराहपु० २७ अ० । ततः चतुरर्थ्यां वरणा० अण् । माथुर तत्पुर्य्यदूरभवे त्रि० । मथूराप्यत्र द्विरूपको० ।
शब्दकल्पद्रुमः
मथुरा || स्त्री (मथ्यते पापराशिर्यया इति । मथ + “मन्दिवाशीत्यादि ।” उणा० । १ । ३९ । इति उरच् ।)
स्वनामख्यातपुरी । अधुना आगरा इति ख्यातस्याग्रवणस्य नगरम् । (यथा, रघौ । ६ । ४८ । “यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गतापि गङ्गोर्म्मिसंसक्तजलेव भाति ॥”)
तत्पर्य्यायः । मधुपघ्नम् २ । इति त्रिकाण्डशेषः ॥ मधुपुरी ३ मधुरा ४ । इति शब्दरत्नावली ॥ सा च मोक्षदायकतीर्थम् । यथा, —
“अयोध्या मथुरा माया काशी काञ्ची अव- न्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥ अयोध्या रामनगरी मथुरा कृष्णपालिता । एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥ श्रीरामधनुरग्रस्था अयोध्या सा महापुरी । मथुरा केशवोत्सृष्टसुदर्शनविधारिता ॥” इत्यादिभूतशुद्धितन्त्रम् ॥ * ॥
तत्र विष्णुदर्शनमाहात्म्यं यथा, “यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥ यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! । ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥ समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ कश्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्च्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ज्येष्ठामूलसिते पक्षे येनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारिताः सकुलोद्भवैः ॥” इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥ * ॥
तस्या माहात्म्यं यथा, — वराह उवाच । “न विद्यते च पाताले नान्तरीक्षे न मानुषे । समत्वं मथुराया हि प्रियं मम वसुन्धरे ! ॥” सूत उवाच । “तच्छ्रुत्वा वचनं तस्य प्रणम्य शिरसा तदा । पुण्यानां परमं पुण्यं पृथ्वी वचनमब्रवीत् ॥ पृथिव्युवाच । पुष्करं नैमिषं चैव पुरी वाराणसी तथा । एता हित्वा महाभाग ! मथुरां किं प्रशंससि ॥ वराह उवाच । शृणु कार्त्स्नेन वसुधे ! कथ्यमानं मयानधे ! । मथुरति च विख्यातं नास्ति क्षेत्रं परं मम । सा रम्या च सुशस्ता च जन्मभूमिः प्रिया मम ॥ शृणु देवि ! यथा स्तौमि मथुरां पापहारि- णीम् । तन्निवासी नरो याति मोक्षं नास्त्यत्र संशयः ॥ महामाध्यां प्रयागे तु यत् फलं लभते नरः । तत् फलं लभते देवि ! मथुरायां दिने दिने ॥ कार्त्तिक्याञ्चैव यत् पुण्यं पुष्करे तु वसुन्धरे ! । तत् फलं लभते देवि ! मथुरायां दिने दिने ॥ पूर्णे वर्षसहस्रे तु वाराणस्यान्तु यत् फलम् । तत् फलं लभते देवि ! मथुरायां क्षणेन हि ॥ मथुराञ्च परित्यज्य योऽन्यत्र कुरुते रतिम् । मूढो भ्रमति संसारे मोहितो मायया मम ॥ यः शृणोति वरारोहे ! माथुरं मम मण्डलम् । अन्येनोच्चारितं शंसन् सोऽपि पापैः प्रमुच्यते ॥ पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च । मथुरायां गमिष्यन्ति सुप्ते चैव जनार्द्दने ॥ मथुरां समनुप्राप्य श्राद्धं कृत्वा यथाविधि । तृप्तिं यान्तीह पितरो यावत् स्थित्यग्रजन्मनः ॥ ये वसन्ति महाभागे ! मथुरामितरे जनाः । तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ॥ कुब्जाम्रके शौकरवे मथुरायां विशेषतः । विना सांख्येन योगेन मुच्यते नात्र संशयः ॥ मथुरायां महापुर्य्यां ये वसन्ति शुचिव्रताः । बलिभिक्षाप्रदातारो ये वा ते नरविग्रहाः ॥ भविष्यामि वरारोहे ! द्बापरे युगसंस्थिते । ययातिभूपवंशाच्च क्षत्त्रियः कुलवर्द्धनः ॥ भविष्यामि वरारोहे ! मथुरायां न संशयः । मूर्त्तिं चतुर्व्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः ॥ स्थास्यामि वत्सरशतं युद्धेषु कृतनिश्चयः । एका चन्दनसङ्काशा द्वितीया कनकप्रभा ॥ अशोकसदृशा चान्या अन्या चोत्पलसन्निभा । तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ! ॥ पुण्यानि च पवित्राणि संसारोच्छेदनानि च । यत्राहं घातयिष्यामि द्बात्रिंशति वसुन्धरे ! ॥ दैत्यान् घोरान् महाभागे ! कंसादीन् घोर- दर्शनान् । यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ॥ वैवस्वतस्वसा रम्या यमुना यत्र विश्रुता । तां नदीं यमुनां गङ्गां प्रयागे सङ्गविश्रुताम् ॥ गङ्गाशतगुणा पुण्या मथुरे मम मण्डले । यमुना विश्रुता देवि ! नात्र कार्य्या विचारणा ॥ तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे ! । येषु स्नानपरो देवि ! मम लोके महीयते ॥ अथात्र मुञ्चते प्राणान् मम कर्म्मपरायणः । न जायते स मर्त्येषु जायते च चतुर्भुजः ॥ अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम् । तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति । विश्रान्तिसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् । यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥ सर्व्वतीर्थेषु यत् स्नानं सर्व्वतीर्थेषु यत् फलम् । तत् फलं लभते देवि ! दृष्ट्वा देवं गतश्रमम् ॥ न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः । तत् फलं लभते देवि ! स्नातो विश्रान्तिसंज्ञके ॥ कालत्रयन्तु वसुधे ! यः पश्यति गतश्रमम् । कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ॥ अस्ति चान्यत् परं गुह्यं सर्व्वसंसारमोक्षणम् । यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥ प्रयागं नाम तीर्थन्तु देवानामपि दुर्लभम् । तस्मिन् स्नातो नरो देवि ! अग्निष्टोमफलं लभेत् ॥ इन्द्रलोकं समासाद्य नरो वै तत्र मोदते । अथात्र मुञ्चते प्राणान् मम लोकं स गच्छति ॥ तथा कनखलं तीर्थं नाम गुह्यं परं मम । स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ॥ अस्ति क्षेत्रं परं गुह्यं तिन्दुकं नाम नामतः । तस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥ अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ! । पाञ्चालविषये देवि ! काम्पिल्यञ्च पुरोत्तमम् ॥ धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् । तस्मिंस्तु वसते देवि ! तिन्दुको नाम नामतः ॥ तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे । कालेन महता तस्य कुटुम्बः क्षयमागतः ॥ क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः । सर्व्वसङ्गपरित्यागी यो गच्छन् मथुरापुरीम् । ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे ! ॥ तत्र कर्म्मशतं कृत्वा स्नात्वैव यमुनां नदीम् । तत्र दानञ्च कुरुते नित्यकालं दृढव्रतः ॥ ततः कालेन महता पञ्चत्वं समुपागतः । तस्य तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः ॥ तस्मिन् वरगृहे देवि ! ब्राह्मणो योगिनां वरः । जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ! ॥ तस्य तीर्थप्रभावेण प्राप्ता मुक्तिः सुदुर्लभा ॥ ततः परं सूर्य्यतीर्थं सर्व्वपापप्रमोचनम् । वैरोचनेन बलिना सूर्य्यस्त्वाराधितः पुरा ॥ भ्रष्टराज्येन बलिना धनकामेन वै पुरा । ऊर्द्ध्वबाहुर्न्निराहारस्तप्तवानुत्तमं तपः ॥ साग्रं संवत्सरं देवि ! ततः काममवाप्नुयात् । तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत ॥ किं कारणं बले ! ब्रूहि तपस्यसि महत्तपः ॥” बलिरुवाच । “भ्रष्टराज्योऽस्मि देवेश ! पाताले निवसाम्यहम् । वित्तेनापि विहीनस्य कुटुम्बभरणं कुतः ॥ मुकुटात्तस्य वै सूर्य्यो ददौ चिन्तामणिं ततः । चिन्तामणिं समासाद्य पातालमगमत्तदा ॥ तस्मिंस्तीर्थे नरः स्नात्वा सर्व्वपापैः प्रमुच्यते । तत्रापि मुञ्चते प्राणान् मम लोकं स गच्छति ॥ आदित्येऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः । तस्मिन् स्नातो नरो देवि ! राजसूयफलं लभेत् ॥ यत्र ध्रुवेण सन्तप्तं इच्छया परमं तपः । अत्र वै स्नानमात्रेण ध्रुवलोके महीयते ॥ तत्रापि मुञ्चते प्राणान् मम लोके महीयते ॥ ध्रुवतीर्थे च वसुधे यः श्राद्धं कुरुते नरः । पितॄं स्तारयते सर्व्वान् पितृपक्षे विशेषतः ॥ दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्त्तितम् । तस्मिन् स्नातो नरो देवि ! मम लोके महीयते । तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ तद्दक्षिणे महादेवि ! ऋषितीर्थं परं मम । तत्र स्नातो नरो देवि ! ऋषिलोकं प्रपद्यते ॥ अथात्र मुञ्चते प्राणान्मम लोके महीयते । दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥ स्नानमात्रेण वसुधे ! मोक्षं प्राप्नोति मानवः । तत्राथ मुञ्चते प्राणान् मम लोके महीयते ॥ तत्रैव कोटितीर्थं हि तीर्थानामपि दुर्लभम् । तत्र स्नानेन दानेन मम लोके महीयते ॥ कोटितीर्थे नरः स्नातः सन्तर्प्य पितृदेवताः । तारिताः पितरस्तेन तथैव प्रपितामहाः ॥ कोटितीर्थे नरः स्नातो ब्रह्मलोके महीयते । तत्रैव वायुतीर्थन्तु पितॄणामपि दुर्लभम् ॥ पिण्डं दद्यात्तु वसुधे ! पितृलोकं स गच्छति । गयापिण्डप्रदानेन यत् फलं लभते नरः ॥ तत् फलं लभते देवि ! ज्यैष्ठे दानान्न संशयः । द्वादशैतानि तीर्थानि देवानां दुर्लभानि च ॥ स्नानं दानं जपो होमः सहस्रगुणितं भवेत् । एषां स्मरणमात्रेण सर्व्वपापैः प्रमुच्यते ॥ श्रुत्वा तीर्थस्य माहात्म्यं सर्व्वान् कामानवा- प्नुयात् ॥” इत्यादि वराहपुराणे मथुरातीर्थप्रभावः ॥ * ॥
इतः प्रभृति सप्तविंशाध्यायेषु मथुरामाहात्म्यं ज्ञेयम् ॥