संस्कृत-शब्दकोशः

मदनायुष मदनावस्था

मदनालय

वाचस्पत्यम्

मदनालय ||‍ पु० ६ त० । २ स्त्रीचिह्ने ज्योतिषोक्ते लग्नाबधिके सप्तमस्थाने मदनभवनादयोऽप्यत्र ।


शब्दकल्पद्रुमः

मदनालयः || पुं, (आलीयतेऽस्मिन्निति आ + ली + अधिकरणे अच् । मदनस्यालयः ।)
षष्ठीसमासः ।)
भगम् । मदनपर्य्यायकशब्दोत्तर- गृहपर्य्यायकशब्देन भगस्योक्तत्वात् । यथा, —
“स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् ॥” इति कर्पूरस्तवः ॥ जन्मलग्नावधिसप्तमस्थानम् । तत्तु जायास्थानम् । यथा, —
“सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्तयूके दिग्वह्नीन्द्रद्बयतिथिशरान् सप्तविंशांश्च विंशान् । अंशानेतान् वदति यवनश्चान्त्यतुङ्गान् सुतुङ्गान् तानेवांशान् मदनभवनेष्वाह नीचान् सुनी- चान् ॥” इति दीपिकायां मदनभवनशब्ददर्शनात् ॥



Correction: