वाचस्पत्यम्
मद्गु || पु० मस्ज—उ न्यङ्क्वा० । (पानिकोडि) १ पक्षिभेदे अमरः । “मद्गुः स्त्रिग्धो वातनाशी भेदकः शुक्रकारकः । रक्त- पित्तविनाशी च शीतलः परिकीर्त्तितः” राजव० । २ मद्गुरमीने नीलकण्ठः ।
शब्दकल्पद्रुमः
मद्गुः || पुं, (मज्जतीति । मस्ज + “भृमृशीतॄ- चरित्सरितधनिनिमिमस्जिभ्य उः ।” उणा० । १ । ७ । इति उः ।)
पक्षिविशेषः । इत्यमरः । २ । ५ । ३४ ॥ पानकौडि इति भाषा ॥ अस्य मांसगुणाः । वायुनाशित्वम् । स्निग्ध- त्वम् । भेदकत्वम् । शुक्रकारित्वम् । रक्तपित्त- नाशित्वम् । शीतत्वञ्च । इति राजवल्लभः ॥ (पर्णमृगभेदः । यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ “मद्गुमूषिकवृक्षशायिका वकुशपूतिघासवानर- प्रभृतयः पर्णमृगाः ॥”)