संस्कृत-शब्दकोशः

मद्यामोद मद्रक

मद्र

वाचस्पत्यम्

मद्र ||‍ पु० मद—रक् । “विराटपाण्ड्ययोर्मध्ये पूर्वदक्षकभेण च । मद्रदेशः समाख्यातः” इत्युक्ते १ देशे २ हर्षे ३ मङ्गले च । वृ० सं० १४ अ० ।


शब्दकल्पद्रुमः

मद्रः || पुं, (मन्दते इति । मदि मोदादौ + “स्फायि तञ्चीति ।” उणा० २ । १३ । इति रक् ।)
देश- विशेषः । हर्षः । इत्युणादिकोषः ॥ तद्देशविव- रणं यथा, —
“वैराटपाण्ड्ययोर्मध्ये पूर्ब्बदक्षक्रमेण तु । मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ (भद्रे, क्ली । यथा, चतुर्थी चाशिष्यायुष्य मद्र- भद्रकुलसुखार्थहितैः । २ । ३ । ७३ । इत्यत्र सूत्रे । मद्रं देवदत्तस्यभूयात् । इति काशिका । मद्रभद्रयोः पर्य्यायत्वादन्यतरो न पठनीयः । इति सिद्धान्तकौमुदी च ॥)



Correction: