संस्कृत-शब्दकोशः

मधु मधुकण्ठ

मधुक

शब्दकल्पद्रुमः

मधुकं || क्ली (मध्विवेति । मधु + “संज्ञायां च ।” ५ । ३ । ९७ । इति कन् । यद्वा, मधु मधुरं कायतीति । कै + कः ।)
यष्टिमधुका । इत्यमरः । २ । ४ । १०९ ॥ (यथास्य पर्य्यायः । “यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)
त्रपु । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

मधुकः || पुं, (मधु मधुरं कायतीति । कै + कः ।)
वन्दिभेदः । यष्ट्याह्वः । विहगान्तरः । इति विश्वः ॥



Correction: