संस्कृत-शब्दकोशः

मद्वर्ग्य मधुक

मधु

वाचस्पत्यम्

मधु ||‍ न मन—उ नस्य धः । १ मद्ये “गर्ज गर्ज क्षणं मूढ! मधु यावत् पिबाम्यहम्” देवीमा० । २ क्षौद्रे “मधु वाता ऋतायते” इति मधुसूक्तम् । ३ पुष्परसे शब्दर० । “मधु द्विरेफः कुसुमैकपात्रे” कुमारः । ४ जले च विश्वः ५ मधुररसे च । “मधुक्षरन्ति सिन्धवः” इति मधुसूक्तम् । ६ मधुरे त्रि० ७ विष्णुकर्णमलजाते दैत्यभेदे पु० । “विष्णुकर्णमलोद्भूता- वसुरौ मधुकैटभाविति” देवीमा० कुम्भीनस्याभर्त्तरि ८ दैत्य- भेदे पु० एवम् ९ वसन्तर्त्तौ १० चैत्रेमामि (मौल) ११ वृक्षभेदे च मेदि० १२ अशोकवृक्षे हेम० १३ यष्टिमधौ पु० शब्दर० १४ प्राणिनां शुभाशुभकर्मणि न० विष्णु स० भा० । १५ जीवन्त्यां स्त्री अमरः । १६ वन्दिभेदे १७ खगभेदे च पु० विश्वः ।


शब्दकल्पद्रुमः

मधु || क्ली (मन्यन्ते विशेषेण जानन्ति जना यस्मिन् । मन् + “फलिपाटिनमिमनिजनां गुक्- पटिनाकिधतश्च । उणा० १ । १९ । इति उः धश्चान्तादेशः । मद्यम् । (यथा, आर्य्यासप्त- शत्याम् । ४२५ । “मधुमदवीतव्रीडा यथा यथा लपति सम्मुखं बाला ॥”)
क्षीरम् । जलम् । इति विश्वः हेमचन्द्रश्च ॥ रसभेदः । मधुररसः इति यावत् । इति शब्द- रत्नावली ॥ पुष्परसः । पुलेर मौ इति भाषा ॥ तत्पर्य्यायः । मकरन्दः २ । इत्यमरः । २ । ४ । १७ ॥ मरन्दः ३ मरन्दकः ४ । इति शब्दरत्नावली ॥ क्षुद्राभिर्मक्षिकाभिः कृतम् । मौ इति भाषा । क्षौद्रम् २ माक्षिकम् ३ । इत्यमरः । २ । १ । १७ ॥ माक्षीकम् ४ कुसुमासवम् ५ पुष्पासवम् ६ पवित्रम् ७ पित्र्यम् ८ पुष्परसाह्वयम् ९ । इति राजनिर्घण्टः ॥ माध्वीकम् १० सारघम् ११ मक्षिकावान्तम् १२ वरटीवान्तम् १३ भृङ्ग- वान्तम् १४ पुष्परसोद्भवम् १५ । इति भाव- प्रकाशः ॥ (तथास्य पर्य्यायः । “मधु पुष्परसं क्षौद्रं मकरन्दश्च माक्षिकम् ॥” इति वैद्यकरत्नमालायाम् ॥ मधु तु मधुरं कषायानुरसं रुक्षं शीतमग्नि- दीपनं वर्ण्यं बल्यं लघु सुकुमारं लेखनं हृद्यं सन्धानं शोधनं रोपणं वाजीकरणं संग्राहि चक्षुःप्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदो- मेहहिक्काश्वासकासातिसारच्छर्द्दितृष्णाकृमि- विषप्रशमनं ह्लादित्रिदोषप्रशमनञ्च तत्तु लघु- त्वात् कफघ्नं पैच्छिल्यान्माघुर्य्यात् कषायभावाच्च वातपित्तघ्नम् । “बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् । मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् ॥ दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् । तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् ॥ नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥” तत्तु नानाद्रव्यरसगुणवीर्य्यविपाकविरुद्धानां पुष्परसानां सविषमक्षिकासम्भवत्वाच्चानुष्णो- पचारम् । “उष्णैर्विरुध्यते सर्व्वं विषान्वयतया मधु । उष्णार्त्तमुष्णैरुष्णैर्वा तं निहन्ति यथा विषम् ॥ तत् सौकुमार्य्याच्च तथैव शैत्या- न्नानौषधीनां रससम्भवाच्च । उष्णैर्विरुध्येत विशेषतश्च तथान्तरीक्षेण जलेन चापि ॥ उष्णेन मधु संयुक्तं वमनेष्ववचारितम् । अपाकादनवस्थानान्न विरुध्येत पूर्ब्बवत् ॥ मध्वामात् परतस्त्वन्यदामं कष्टं न विद्यते । विरुद्धोपक्रमत्वात्तत् सर्व्वं हन्ति यथा विषम् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)
अस्य सामान्यगुणाः । शीतत्वम् । मृदुत्वम् । स्वादुत्वम् । त्रिदोषव्रणनाशित्वम् । कषायानु- रसत्वम् । रूक्षत्वम् । चक्षुष्यत्वम् । श्वासकास- नाशित्वञ्च ॥ * ॥
तदष्टविधं यथा । पौत्तिकम् १ भ्रामरम् २ क्षौद्रम् ३ माक्षिकम् ४ छात्रम् ५ अर्घ्यम् ६ औद्दालकम् ७ दालम् ८ । एतेषां लक्षणाणि यथा, —
“पिङ्गला मक्षिका ज्ञेया महत्यल्पा च सा द्विधा । महती पुत्तिकानाम्नी स्वल्पा क्षुद्रेति कथ्यते ॥ मध्यमा मक्षिका नीला माक्षिकेत्यभिधीयते । पुत्तिकाभ्रमरक्षुद्रामक्षिकासम्भवं मधु ॥ पौत्तिकाद्युच्यते च्छात्रं वरटीच्छत्रसम्भवम् । तपोवने जरत्कारोरर्घ्यं मधुतरूद्भवम् ॥ औद्दालकन्तु बल्मीककारिकीटविनिर्म्मितम् । दालमित्यभिनिर्द्दिष्टं वृक्षकोटरकीटजम् ॥” एतेषां वर्णा यथा, —
“माक्षिकं तैलवर्णं स्यात् घृतवर्णन्तु पौत्तिकम् । क्षौद्रं कपिलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते ॥” एतेषां गुणा यथा, — पौत्तिकं तेषु वीर्य्योष्णं कषायानुरसान्वयात् । वातासृक्पित्तकृद्भेदि विदाहि मदकृन्मधु ॥ “पैच्छिल्यात् स्वादुभूयस्त्वाद् भ्रामरं गुरु कीर्त्तितम् । क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥ तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् । श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ॥ छात्रं श्वित्रिक्रिमिहरं रक्तपित्तहरं गुरु । अर्घ्यं चक्षुष्यमायुष्यं कफपित्तामवातजित् ॥ औद्दालकं कषायोष्णं कटुकुष्ठविषापहम् । दालं कफहरं रूक्षं दीपनं छर्द्दिमेहनुत् ॥ उष्णमुष्णार्त्तमुष्णैश्च हन्यान्मधु विषान्वयात् । मधुन्युष्णैर्विरुध्यन्ते वर्ज्जयित्वार्य्यसंज्ञितम् ॥” उष्णैः रौद्रैः करणैः उष्णं मधु उष्णार्त्तं रौद्र- पीडितं जनं विषान्वयात् विषतुल्यत्वात् हन्यात् ॥ * ॥
नवपुराणमधुगुणाः । “वृंहणीयं मधु नवं वातश्लेष्महरं परम् । पुराणं लघु संग्राहि निर्द्दोषं स्थौल्यनाशनम् ॥ दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥” अत्र केचिन्मधुनोऽग्निसंयोगाभावात् कालपक्व- तामाहुः ॥ * ॥
मधुजातशर्क्करागुणाः । “मधुजा शर्क्करा रूक्षा तृष्णाच्छर्द्यतिसारजित् ।” इति राजवल्लभे मधुवर्गः ॥ * ॥
अपि च । “माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा । आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ नानापुष्परसाहाराः कपिला वनमक्षिकाः । याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥ ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः । भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥ पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः । ताभिरुत्पादितं यत्तु तत् क्षौद्रं मधु कथ्यते ॥ महत्यो मक्षिकाः पिङ्गाः पुत्तिका इति कीर्त्तिताः । तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ छत्राकारन्तु पटलं सरघाः पीतपिङ्गलाः । ये कुर्व्वन्ति तदुत्पन्नं मधुच्छात्रकमीरितम् ॥ मक्षिकास्तीक्ष्णतुण्डा याः पीताः षट्पद- सन्निभाः । तदुद्भूतं यदर्घ्यार्हं तदार्घ्यं मधु भण्यते ॥ उद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः । बल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीर्य्यते ॥ इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः । यद्वृक्षकोटरान्तस्तन्मधु दालमिदं क्रमात् ॥ इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् । अथ वक्ष्याम्यहं त्वेषां वर्णवीर्य्यादिकं क्रमात् ॥” तद्यथा, — माक्षिकं तैलवर्णं स्यात् श्वेतं भ्रामरमुच्यते । क्षौद्रन्तु कपिलाभासं पौत्तिकं घृतसन्निभम् ॥ आपीतवर्णं छत्रं स्यात् पिङ्गलञ्चार्घ्यनामकम् । औद्दालं स्वर्णसादृश्यमापीतं दालमुच्यते ॥ माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् । भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥ क्षौद्रन्तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् । पौत्तिकं मधु रूक्षोष्णं कृम्यस्रपित्तदाहहृत् ॥ श्वित्रमेहकृमिघ्नञ्च विद्याच्छात्रं गुणोत्तरम् । अर्घ्यं मध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥ औद्दालकन्तु कुष्ठादिदोषघ्नं सर्व्वसिद्धिदम् । दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ नवं मधु भवेत् स्थौल्यं नातिश्लेष्महरं परम् । देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥ पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वा- मयादि- ध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्य्यवृद्धिं विधते । आमञ्चेदामगुल्मामयपवनरुजापित्तदाहा- स्रदोष- नाशं न्यूनं विशोषं जनयति नयति ध्वंसमप्यण्ड- वृद्धेः ॥ व्रणशोधनसन्धाने व्रणसंरोपणादिषु । साधारण्यान्मधु हितं तत्तुल्या मधुशर्कराः ॥ उष्णं सहोष्णं काले वा स्वयमुष्णमथापि वा । आमं मधु मनुष्याणां विषवत्तापदायकम् ॥ कीटकादियुतमम्लदूषितं यच्च पर्य्युषितकं मधु स्वतः । कण्ठकोटरगतञ्च मेचकं तच्च गेहजनितञ्च दोषकृत् ॥ दण्ड निहत्य यदुपात्तमपास्य दंशां- स्तादृग्विधं मधु रसायनयोगयोग्यम् । हिक्कागुदाङ्कुरविशोफकफव्रणादि- दोषापहं भवति दोषदमन्यथा चेत् ॥ माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥ यद्गुणं यन्मधु प्रोक्तं तद्गुणास्तस्य शर्कराः । विशेषाद्बलवृष्या च तर्पणं क्षीणदेहिनाम् ॥” इति राजनिर्घण्टः ॥ * ॥
* ॥
मतान्तरे मधुगुणाः । “मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम् । चक्षुष्यं दीपनं स्वर्य्यं व्रणशोधनरोपणम् ॥ सौकुमार्य्यकरं सूक्ष्मं परं स्रोतोविशोधनम् । कषायानुरसं ह्लादि प्रसादजनक्रं परम् ॥ बल्यं मेधाकरं वृष्यं विषदं रोचनं हरेत् । कुष्ठार्शःकासपित्तास्रकफमेहक्लमक्रिमीन् । मेदस्तृष्णावमिश्बासहिक्कातीसारविड्ग्रहान् । दाहक्षतक्षयांस्तत्तु योगवाह्यल्पवातलम् ॥” * ॥
अथ मधुभेदाः । “माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रमित्यपि । आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥” * ॥
अथ तेषां लक्षणानि गुणाश्च । तत्र माक्षिकस्य । “मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः । ताभिः कृतं तैलवर्णं माक्षिकं तत् प्रचक्षते ॥ माक्षिकं मधुषु श्रेष्ठं नेत्रामयहरं लघु । कामलार्शःक्षतश्वासकाशक्षयविनाशनम् ॥” * ॥
अथ भ्रामरस्य । “किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः पुष्पेभ्यः अलिभि- श्चितम् । निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम् ॥ * ॥
” अथ क्षौद्रस्य । “मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत् ॥ गुणैर्माक्षिकवत् क्षौद्रं विशेषान्मेहनाशनम् ॥” अथ पौत्तिकस्य । “याः कृष्णा मशकोपमा लघुतराः प्रायो महापिण्डितं वृक्षाणां तरुकोटरान्तरगताः पुष्पासवं कुर्व्वते । तास्तज्ज्ञैरिह पुत्तिका निगदितास्ताभिः कृतं सर्पिषा तुल्यं यन्मधु तद्बनेचरजनैः संकीर्त्तितं पौत्ति- कम् ॥ पौत्तिकं मधु रूक्षोष्णं पित्तदाहास्रवातकृत् । विदाहि मेहकृच्छ्रघ्नं ग्रन्थ्यादिक्षतशोषि च ॥” अथ छात्रस्य । “वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥ छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु । स्वादुपाकं क्रिमिश्चित्ररक्तपित्तप्रमेहजित् । भ्रमतृणमोहविषहृत् तर्पणञ्च गुणाधिकम् ॥” अथार्घ्यस्य । “मधूकवृक्षा निर्यासं जरत्कार्ब्बाश्रमोद्भवाः । स्रवन्त्यार्घ्यं तदा ख्यातं श्वेतकं मालवे पुनः ॥ तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदो- पमाः । अर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः ॥ आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् । कषायं कटुकं पाके तिक्तञ्च बलपुष्टिकृत् ॥” * ॥
अथोद्दालकस्य । “प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्प- कीटकाः । कुर्व्वन्ति कपिलं स्वल्पं तत् स्याद्दौद्दालकं मधु ॥ औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम् । कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत् ॥” * ॥
अथ दालस्य । “संस्रुत्य पतितं पुष्पात् यत्तु पत्रोपरि स्थितम् । मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम् ॥ दालं मधु लघु प्रोक्तं दीपनीयं कफापहम् । कषायानुरसं रूक्षं रुच्यं छर्द्दिप्रमेहजित् ॥ अधिकं मधुरं स्निग्धं बृंहणं गुरुभारिकम् ॥” लघु पाके । गुरुभारिकं तुलितम् ॥ * ॥
अथ नवपुराणमधुगुणाः । “नवं मधु भवेत् पुष्ट्यै नातिश्लेष्महरं सरम् । पुराणं ग्राहकं रूक्षं मेदोध्नमतिलेखनम् ॥ मधुनः शर्करायाश्च गुडस्यापि विशेषतः । एकसंवत्सरेऽतीते पुराणत्वं स्मृतं बुधैः ॥” अथ मधुनः शीतस्य गुणाधिक्यमुष्णताया निषेधः । “विषपुष्पादपि रसं सविषा भ्रमरादयः । गृहीत्वा मधु कुर्व्वन्ति तच्छीतं गुणबन्मधु ॥ विषान्वयात्तदुष्णन्तु द्रव्येणोष्णेन वा सह । उष्णार्त्तस्योष्णकाले च स्मृतं विषसमं मघु ॥” इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

मधुः || पुं, (मन् + उ । नस्य धः ।)
मधुद्रुमः । मौलगाछ इति भाषा ॥ वसन्तर्त्तुः । (यथा, कुमारसम्भवे । ३ । २७ । “निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥”)
दैत्यभेदः । (यथा, देवीभागवते । १ । ९ । १५ । “मधुश्च कुपितस्तत्र हरिणा सह संयुगे ॥”)
इमं हत्वा विष्णुर्मधुसूदनोऽभूत् ॥ चैत्रमासः । इति मेदिनी । धे, १२ ॥ (यथा, रघुः । ११ । ७ । “रेजतुर्गतिवशात् प्रवर्त्तिनौ भास्करस्य मधुमाधवाविव ॥”)
अशोकवृक्षः । इति हेमचन्द्रः । २ । १५३ ॥ यष्टि- मधु । इति शब्दरत्नावली ॥ असुरविशेषः । (यथा, भागवते । ९ । ११ । १४ । “शत्रुघ्नश्च मधोः पुत्त्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥”)
स च शत्रुघ्नेन हतः । यस्य नाम्ना मथुरा मधु- पुरीति ख्याता ॥


शब्दकल्पद्रुमः

मधुः || स्त्री (मन् + उ । नस्य धः ।)
जीवन्तीवृक्षः । इत्यमरः । २ । ४ । १४२ ॥



Correction: