वाचस्पत्यम्
मधुकर || पुंस्त्री० मधूनि करोति सञ्चित्य निष्पादयति कृ अच् । १ भ्रमरे अमरः २ तद्योषिति स्त्री ङीप् । ३ कामिजने धरणिः । ४ भृङ्गराजे च पु० रत्नमा० मधुभृदादयोऽपि भ्रमरे ।
शब्दकल्पद्रुमः
मधुकरः || पुं, (करोति सञ्चिनोतीति । कृ + अच् । मधुनः करः ।)
भ्रमरः । इत्यमरः । २ । ५ । २९ ॥ (यथा, श्रीमद्भागवते । ४ । १८ । २ । “सर्व्वतः सारमादत्ते यथा मधुकरो बुधः ॥”)
कामी । इति धरणिः ॥ भृङ्गराजवृक्षः । इति शब्दमाला ॥