शब्दकल्पद्रुमः
मधुजा || स्त्री (मधोः मधुमेदसो जाता प्रादु- र्भूता इति । जन् + डः टाप् ।) पृथिवी । इति शब्दचन्द्रिका ॥ (मधुनो जायते स्म इति । जन + ड ।) सिता । तत्पर्य्यायः । महाश्वेता २ । इति त्रिकाण्डशेषः ॥