वाचस्पत्यम्
मधुजित् || पु० मधुमसुरभेदं जितवान् जि मूते क्विप् । विष्णौ शब्दरत्ना० मधुशत्रुमधुरिपुप्रभृतयोऽप्यत्र ।
शब्दकल्पद्रुमः
मधुजित् || पुं, (मधुं मधुनामानं दैत्यं जितवान्निति । जि + क्विप् । तुगागमश्च ।)
विष्णुः । इति शब्द- रत्नावली ॥ (यथा, देवीभागवते । १ । ५ । ६२ । “शिवे ! किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः ॥”)