वाचस्पत्यम्
मधुपर्णी || स्त्री मधु इव हितकरं पर्णं यस्याः । १ गुडूच्याम् अमरः । २ गाम्भार्य्यां ३ नीलीवृक्षे मेदि० ४ वराहक्रान्ता- याम् ५ मधुवीजपूरे च राजनि० ।
शब्दकल्पद्रुमः
मधुपर्णी || स्त्री (मधु इव हितं पर्णं यस्याः । गौरादित्वात् ङीष् ।)
गुडूची । इत्यमरः । २ । ४ । ८४ ॥ (अस्याः पर्य्यायो रत्नमालायां यथा, “वत्सादनी छिन्नरुहा मधुपर्ण्यमृतामरा । कुण्डल्यमृतवल्ली च गुडूची चक्रलक्षणा ॥”)
गम्भारीवृक्षः । नीलीवृक्षः । इति मेदिनी । ने, १०५ ॥ मधुबीजपूरः । इति राजनिर्घण्टः ॥ (विकङ्कतवृक्षः । तत्पर्य्यायो यथा, —
“विकङ्कतः स्वादुकण्टः श्रुग्दारु मधुपर्ण्यपि ॥” इति वैद्यकरत्नमालायाम् ॥)