शब्दकल्पद्रुमः
मधुपर्णिका || स्त्री (मध्विव हितं पर्णमस्याः । ततः स्वार्थे कन् टाप् । अत इत्वञ्च ।)
गम्भारीवृक्षः । (अस्याः पर्य्यायो यथा, —
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत- रोहिणी ॥ कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”)
नीलीवृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः पर्य्यायो यथा, —
“नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥”)
वराहक्रान्ता । इति शब्दचन्द्रिका ॥ गुडूची । सुदर्शना । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते शारीरस्थाने १० अध्याये । “पृश्निपर्णी बलाशिग्रुश्वद्रंष्टा मधुपर्णिका ॥” अस्याः पर्य्यायो यथा, —
“सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)