संस्कृत-शब्दकोशः

मधुमज्जन् मधुमत्

मधुमती

शब्दकल्पद्रुमः

मधुमती || स्त्री (मधुर्मधुररसोऽस्त्यत्रेति मतुप् । ङीप् ।)
काश्मरीवृक्षः । नदीविशेषः । तस्या जलगुणाः । यथा, राजनिर्घण्टे । “चन्द्रभागागुणसाम्यदं जलं किञ्च माधुमतमग्निदीपनम् ॥” उपास्यनायिकाविशेषः । यथा, —
“तथा मधुमती सिद्धिर्जायते नात्र संशयः । देवचेटी शतशतं तस्य वश्या भवन्ति ह ॥ स्वर्गे मर्त्ये च पाताले स यत्र गन्तुमिच्छति । तत्रैव चेटिकाः सर्व्वा नयन्ति नात्र संशयः ॥” इति कृकलासदीपिकायां ३ पटलः ॥ (छन्दोभेदः । अस्या लक्षणं यथा, छन्दोम- ञ्जर्य्याम् । २ । १ । “ननगि मधुमती ।” अधिकं छन्दःशब्दे द्रष्ट- व्यम् ॥ समाधिसिद्धिभेदः । यथा, सर्व्वदर्शन- संग्रहे पातञ्जलदर्शने । “तत्र मधुमती नामा- भ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख- प्रकाशमयसत्त्वभावनयानवद्यवैशारद्यविद्योतन- रूपऋतम्भरप्रज्ञाख्या समाधिसिद्धिः ॥ गङ्गा । यथा, काशीखण्डे । २९ । १३३ । “महोदया मधुमती महापुण्या मुदाकरी ॥” इक्ष्वाकुपुत्त्रहर्य्यश्वस्य भार्य्या सा च मधोर्दैत्यस्य सुता । यथा, हरिवंशे । ९३ । १२ — १३ । “आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः । हर्य्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥ तस्यासीद्दयिता भार्य्या मधोर्दैत्यस्य वै सुता । देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥” मधुरसविशिष्टे, त्रि । यथा, ऋग्वेदे । ७ । ६९ । ३ । “स्वश्वायशसायातमर्व्वाग्दस्रानिधिं मधुमन्तं पिबाथः ॥”)



Correction: