वाचस्पत्यम्
मध्यदेश || पु कर्म० । “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशना- दपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तित, मनूक्ते देशभेदे ।
शब्दकल्पद्रुमः
मध्यदेशः || पुं, (मध्यश्चासौ देशश्चेति ।)
देश- विशेषः । तत्पर्य्यायः । मध्यमः २ । इत्यमरः ॥ तस्य सीमा यथा, मनुः । २ । २१ । “हिमवद्बिन्ध्ययोर्मध्यं यः प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥” विनशनं तीर्थमेदः । मां ध्यायति स्मरतीति केसति मद्ध्यो दकारवानिति साञ्जे । मनो धश्चेति यप्रत्यये नस्य धे सति चतुर्थमात्रवा- नति रूपरत्नाकरः । इति तट्टीकायां भरतः ॥