वाचस्पत्यम्
मध्यस्थ || पु० मध्ये तिष्ठति स्था—क । १ मध्यवर्त्तिनि २ उदा- सीने च । “माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे” इति कुमारः ।
शब्दकल्पद्रुमः
मध्यस्थः || त्रि (मध्ये वादिप्रतिवादिनोरन्तरे तिष्ठतीति । स्था + कः ।)
मध्यस्थायी । तत्- पर्य्यायः । निसृष्टः २ । इति त्रिकाण्डशेषः ॥ (यथा कथासरित्सागरे । १० । १९१ । “निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥” यथा च भागवते । ६ । १६ । ५ । “बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः । सर्व्व एव हि सर्व्वेषां भवन्ति क्रमशो मिथः ॥”)
उभयपक्षहीनः । यथा, —
“श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥” इति श्रीभागवते १० स्कन्धे ७८ अध्यायः ॥ स्वार्थाविरोधेन परार्थघटकः । यथाह प्राञ्चः । “ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य वाधेन ये मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरो- धेन ये । तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते ये तु घ्नन्ति निरर्थकं परहितं ते के न जानी- महे ॥”