संस्कृत-शब्दकोशः

मध्यस्थल मध्याह्न

मध्या

शब्दकल्पद्रुमः

मध्या || स्त्री (मध्य + ठाप् ।)
मध्यमाङ्गुलिः । इति हेमचन्द्रः ॥ नायिकाविशेषः । अस्या लक्षणम् । समानलज्जामदना । एषैव चाति- प्रश्रयादतिविश्रब्धनवोढा ॥ अस्याश्चेष्टा । सागसि प्रेयसि धेर्य्ये वक्रोक्तिरधैर्य्यै परुषवाक् । यथा, —
“स्वापे प्रियाननविलोकनहानिरेव स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः । इत्थं सरोरुहसुखी परिचिन्तयन्ती स्वापं विधातुमपि हातुमपि प्रपेदे ॥” मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिविधे । धीरा अधीरा धीराधीरा चेति । इति रस- मञ्जरी ॥



Correction: