वाचस्पत्यम्
मध्याह्न || पु० मध्यमह्नः एक० स० टच्समा० अह्नादेशः । अह्नान्तत्वात् पुंस्त्वम् । त्रिधा विभक्तदिनस्य १ द्वितीये भागे “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्या- ह्नस्त्रिमुहूर्त्तं स्यात्” दक्षोक्ते पञ्चधा विभक्तदिनस्य २ तृतीये भागे च ।
शब्दकल्पद्रुमः
मध्याह्नः || पुं, (मध्यं अहः समासान्तः टच् । “अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इत्यह्नादेशः पुंस्त्वञ्च ।)
अह्रोऽष्टममुहूर्त्तात्मकमध्यभागः । स च कुतपकालस्य संज्ञाविशेषः । यथा, —
“अह्रो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा । तत्राष्टमो मुहूर्त्तो यः सः कालः कुतपः स्मृतः । मध्याह्रे सर्व्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ मध्याह्रः खड्गपात्रञ्च तथा नेपालकम्बलम् । रौप्यं दर्भास्तिला गावो दौहित्रं चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः । अष्टावेते यतस्तस्मात् कुतपा इति संस्मृताः ॥” इति मत्स्यपुराणे श्राद्धकल्पे २२ अध्यायः ॥ त्रिधाविभक्तदिनमध्यभागः । स च दशदण्डात् परं दशदण्डरूपः । इति श्रुत्युक्तः अमरोक्तश्च ॥ पञ्चधाविभक्तदिनतृतीयभागः । स तु द्वादश- दण्डात् परषड्दण्डात्मकः । इति स्मार्त्तधृतमत्स्य- पुराणम् ॥ एष नियमस्त्रिंशद्दण्डदिनाभिप्रायेण न्यूनाधिके न्यूनाधिककालो ज्ञेयः ॥ * ॥
मध्याह्न- कृत्यं यथा, —
“ततो मध्याह्रसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतं कुशतिलान् गोमयं शुद्धमेव च ॥ नदीषु देवखातेषु तडागेषु सरित्सु च । स्नानं समाचरेन्नित्यं गर्भप्रस्रवणेषु च ॥ परकीयनिपानेषु न स्नायाद्वै कदाचन । पञ्च पिण्डान् समुद्धृत्य स्नायाद्वा सम्भवे पुनः ॥ मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कार्य्यं पादौ षड्भिस्तथैव च ॥ मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमानिका । गोमयस्य प्रमाणन्तत्तेनाङ्गं लेपयेत्ततः ॥ लेपयित्वाथ तीरस्थस्तल्लिङ्गेनैव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततः स्नायात् समाहितः ॥ अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः । भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥ प्रेक्ष्य ॐकारमादित्यं त्रिर्निमज्जेज्जलाशये । पुनः पुनरथाचामेत् मन्त्रेणानेन मन्त्रवित् ॥ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृ- तम् ॥ द्विवारं वा त्रिरभ्यस्येत् व्याहृतिप्रणवान्विताम् । सावित्रों वा जपेद्विद्वांस्तथा चैवाघमर्षणम् ॥ ततः सम्मार्ज्जनं कुर्य्यादापोहिष्ठामयो भुवः । इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ ततोऽभिमन्त्र्य तत् तीर्थमापोहिष्ठादिमन्त्रकैः । अन्तर्ज्जले त्रिरावर्त्त्य सर्व्वपापात् प्रमुच्यते ॥ अपः पाणौ समादाय जप्त्वा वै मार्ज्जने कृते । विन्यस्य मूर्द्ध्नि तत्तोयं मुच्यते सर्व्वपातकैः ॥ यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः । तथाघमर्षणं सूक्तं सर्व्वपापापनोदनम् ॥ अथोपतिष्ठेदादित्यं मूर्द्ध्नि पुष्पान्विताञ्जलिम् । प्रक्षिप्यालोकयन्देवमदृश्यं वैदिकैः परम् ॥ उदुत्यं चित्रं देवानामित्यादिभिरनन्यधीः । हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः । सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ विविधानि पवित्राणि गुह्यविद्यास्तथैव च । शतरुद्रियमथर्व्वशिरः सौरमन्त्रांश्च शक्तितः ॥ प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः । तिष्ठंश्चेदीक्षमाणोऽर्कं जाप्यं कुर्य्यात् समा- हितः ॥ स्फाटिकेन्द्राक्षरुद्राक्षपुत्त्रजीवसमुद्भवैः । कर्त्तव्या अक्षमाला वा उत्तरादुत्तमा स्मृता ॥ जपकाले न भावेत नान्यानि प्रेक्षयेद्बुधः । न कम्पयेच्छिरोग्रीवान्दन्तान्नैव प्रकाशयेत् ॥ गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभम्भयात् । एकान्तेषु शुभे देशे तस्माज्जप्यं समाचरेत् ॥ चण्डालाशौचिपतितान् दृष्ट्वाचम्य पुनर्ज्जपेत् । तैरेव भाषणं कृत्वा स्नात्वा चैव जपेद्बुधः ॥ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ यदि स्यात् क्लिन्नवासो वै वारिमध्यगतो जपेत् । अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ । आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाच- रेत् ॥ ततः सन्तर्पयेद्देवानृषीन् पितृगणान् क्रमात् । आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ॥ देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः । तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ अन्वारब्धेन सव्येन पाणिना दक्षिणेन च । देवर्षींस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥ यज्ञोपवीती देवानां निवीती ऋषितर्पणम् । प्राचीनावीती पैत्र्ये तु स्वेन तीर्थेन भावतः ॥ नापीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः । स्वैर्म्मन्त्रैरर्च्चयेद्देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ ब्रह्माणं शङ्करं सूर्य्यं तथैव मधुसूदनम् । अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो- ऽत्वरः ॥ प्रदद्याद्वाथ पुष्पाणि सूक्तेन पुरुषेण तु । आपो वा देवताः सर्व्वास्तेन सम्यक् समर्च्चिताः ॥ नमस्कारेण पुष्पाणिं विन्यसेद्बै पृथक् पृथक् । न विष्ण्वाराधनात् पुण्यं विद्यते कर्म्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ तद्विष्णोरितिमन्त्रेण सूक्तेन पुरुषेण तु । नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥ निवेदयेत् स्वमात्मानं विष्णावमलतेजसि । तदात्मा तन्मनाः शान्तस्तद्विष्णोरितिमन्त्रतः ॥ अथवा देवमीशानं भगवन्तं सनातनम् ॥ आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ मन्त्रेण रुद्रगायत्त्र्या प्रणवेनाथ वा पुनः । ईशानेनाथवा रुद्रैस्त्र्यम्बकेण समाहितः ॥ पुष्पैः पत्रैरथाद्भिश्च चन्दनाद्यैर्महेश्वरम् । अथोन्नमः शिवायेति मन्त्रेणानेन योजयेत् ॥ नमस्कुर्य्यान्महादेवमृतं सत्यमितीश्वरम् । निवेदयीत स्वात्मानं यो ब्राह्मणमितीश्वरे ॥ प्रदक्षिणं द्विजः कुर्य्यात् पञ्च ब्राह्मण वै जपन् । ध्यायेत्तं देवमीशानं व्योममध्यगतं शिवम् ॥ अथावलोकयेदर्कं हंसः शुचिषदित्यृचा । कुर्य्यात् पञ्च महायज्ञान् गृहं कृत्वा समाहितः ॥ देवयज्ञं पितृयज्ञं ऋषियज्ञं तथैव च । मानुष्यं ब्रह्मयज्ञञ्च पञ्चयज्ञान् प्रचक्षते ॥ यदि स्यात् तर्पणादर्व्वाक्ब्रह्मयज्ञः कृतो न हि । कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् । अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा । कुशासनसमासीनः कुशपाणिः समाहितः ॥ शालाग्नौ लौकिकाग्नौ वा जले भूम्यामथापि वा । वैश्वदेवनिमित्तं वै देवयज्ञः स वै स्मृतः ॥ यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र हूयते । शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥ देवेभ्यश्च हुतान्दद्यात् शेषान् भूतबलिं हरेत् । भूतयज्ञः स वै ज्ञेयो भूतिदः सर्व्वदेहिनाम् ॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यो नित्यमेव च । दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥ सायं चान्नस्य सिद्धस्य कुर्य्यादेवमतन्द्रितः । भूतयज्ञः स्वयं नित्यं सायं प्रातर्विधीयते ॥ एकन्तु भोजयेद्विप्रं षितॄनुद्दिश्य सत्तमम् । अथवायं यथाशक्ति किञ्चिदन्नं समाहितः । वेदतत्त्वार्थविदुषे द्विजायै वोपपादयेत् ॥ पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद्द्विजम् । मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्तु तम् ॥ हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रं स्यात् तच्चतुर्गुणम् । पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥ गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ भिक्षां वै भिक्षवे दद्याद्विधिवद् ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्ज्जितः ॥ सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयत् । भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ अकृत्वा तु द्बिजः पञ्च महायज्ञान् द्विजोत्तमाः । भुञ्जीत चेत् सुमूढात्मा तिर्य्यग्योनिं स गच्छति ॥ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः । नाशयन्त्याशु पापानि देवानामर्च्चनं तथा ॥ यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् । भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः । भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥” इति कौर्म्मे उपविभागे १७ अध्यायः ॥ अत्र भोजनविधिर्भोजनशब्दे द्रष्टव्यः ॥