संस्कृत-शब्दकोशः

मनड मनःशिल

मनन

वाचस्पत्यम्

मनन ||‍ न० मन—ल्युट् । १ अनुमाने २ युक्त्या पदार्थनिर्णये च


शब्दकल्पद्रुमः

मननं || क्ली (मन्यत इति । मन् + ल्युट् ।)
श्रुतस्या- द्बितीयवस्तुनो वेदान्तार्थानुगुणयुक्तिभिः अन- वरतमनुचिन्तनम् । इति वेदान्तसारः ॥ बोध- नम् । (यथा, गायत्त्रीतन्त्रे । १ । ४ । “मननात् पापतस्त्राति मननात् स्वर्गमश्नुते । मननात् मोक्षमाप्नोति चतुर्व्वर्गमयो भवेत् ॥”)
धारणम् । इति मनधात्वर्थदर्शनात् । बुद्धिः । इति राजनिर्घण्टः ॥



Correction: