शब्दकल्पद्रुमः
मनःशिलः || पुं, (मनो मानसं शिलति आकर्षति स्वगन्धेनेति । शिल + कः ।) मनःशिला । यथा, “टङ्कैर्मनःशिलगुहैरविदार्य्यमाणा ॥” इत्यमरटीकायां भरतः ॥