संस्कृत-शब्दकोशः

मनस् मनस्ताप

मनस्कार

वाचस्पत्यम्

मनस्कार ||‍ पु० कृ घञ् मनसःकारोव्यापारभेदः । चित्तस्य सुखतत्परत्वे अमरः ।


शब्दकल्पद्रुमः

मनस्कारः || पुं, (मनसि मनसो वा कारो निश्चय इति । यद्वा, कृ + भावे घञ् । मनसः कारो- विकारः करणमिति वा ।)
मनसः सुखादिः । तत्र्य्यायः । चित्ताभोगः २ । इत्यमरः । १ । ५ । ५ ॥ द्वे मनसः सुखादौ तत्परत्वे एकस्मिन् विषये मनसः पुनः पुनः प्रवृत्तिराभोगः । आभोगस्तात्पर्य्यमिति सर्व्वानन्दः । स्थैर्य्य- मित्यन्ये । व्यापार इत्यपरे । वाञ्छितवस्तु- प्राप्त्या चित्तस्य निराकाङ्क्षता । आभोगः परिपूर्णतेति परे । अनागतचिन्तनादिरूपो मनस्कार इत्यपरे । मनसो मनसि वा कारो निश्चयो मनस्कारः सेतु कखेति सः । मनसि करणं मनसि कारः इत्यपि दृश्यते अत्र बाहु- ल्यात् सप्तम्या अलुक् । इति तट्टीकायां भरतः ॥



Correction: