वाचस्पत्यम्
मनस्ताप || पु० मनसस्तापः । १ अनुतापे २ मनःपीडायाञ्च ।
शब्दकल्पद्रुमः
मनस्तापः || पुं, (मनसः तापः पीडा ।)
मनः- पीडा । यथा, गारुडे १११ अध्याये । “मनस्तापं न कुर्व्वीत आपदं प्राप्य पार्थिवः । समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेत् ॥” अनुतापः । यथा, प्रायश्चित्ततत्त्वे । “ब्राह्मणेन यदा दैवात् छिन्नं यज्ञोपवीतकम् । मनस्तापेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥”