संस्कृत-शब्दकोशः

मनस्थं मनस्विन्

मनस्विनी

शब्दकल्पद्रुमः

मनस्विनी || स्त्री (प्रशस्तं मनोऽस्त्यस्याः इति । मनस् + विनि । ङीप् ।)
प्रशस्तमनाः स्त्री । यथा, कुमारसम्भवे । ३ । ३२ । “मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥” मृकण्डोः पत्नी । यथा, मार्कण्डेयपुराणे । ५२ । १७ । “प्राणश्चैव मृकण्डुश्च पिता मम महायशाः । मनस्विन्यामहं तस्मात् पुत्त्रो वेदशिरा मम ॥” प्रजापतिपत्नी । सा च सोमस्य वसोर्जननी । यथा, महाभारते । १ । ६६ । १९ । “धूम्रायास्तु धरः पुत्त्रो ब्रह्मविद्यो ध्रुवस्तथा । चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥”)



Correction: